Skip to main content
पडताळणी प्रलंबित

श्री भुवनेश्वरी स्तोत्रम्

अथानन्दमयीं साक्षाच्छब्दब्रह्मस्वरूपिणीम् ।

ईडे सकलसम्पत्त्यै जगत्कारणमम्बिकाम् ॥ १ ॥

आद्यामशेषजननीमरविन्दयोने-

-र्विष्णोः शिवस्य च वपुः प्रतिपादयित्रीम् ।

सृष्टिस्थितिक्षयकरीं जगतां त्रयाणां

स्तुत्वा गिरं विमलयाप्यहमम्बिके त्वाम् ॥ २ ॥

पृथ्व्या जलेन शिखिना मरुताम्बरेण

होत्रेन्दुना दिनकरेण च मूर्तिभाजः ।

देवस्य मन्मथरिपोरपि शक्तिमत्ता-

-हेतुस्त्वमेव खलु पर्वतराजपुत्रि ॥ ३ ॥

त्रिस्रोतसः सकलदेवसमर्चिताया

वैशिष्ट्यकारणमवैमि तदेव मातः ।

त्वत्पादपङ्कजपरागपवित्रितासु

शम्भोर्जटासु सततं परिवर्तनं यत् ॥ ४ ॥

आनन्दयेत्कुमुदिनीमधिपः कलानां

नान्यामिनः कमलिनीमथ नेतरां वा ।

एकत्र मोदनविधौ परमे क ईष्टे

त्वं तु प्रपञ्चमभिनन्दयसि स्वदृष्ट्या ॥ ५ ॥

आद्याप्यशेषजगतां नवयौवनासि

शैलाधिराजतनयाप्यतिकोमलासि ।

त्रय्याः प्रसूरपि तथा न समीक्षितासि

ध्येयासि गौरि मनसो न पथि स्थितासि ॥ ६ ॥

आसाद्य जन्म मनुजेषु चिराद्दुरापं

तत्रापि पाटवमवाप्य निजेन्द्रियाणाम् ।

नाभ्यर्चयन्ति जगतां जनयित्रि ये त्वां

निःश्रेणिकाग्रमधिरुह्य पुनः पतन्ति ॥ ७ ॥

कर्पूरचूर्णहिमवारिविलोडितेन

ये चन्दनेन कुसुमैश्च सुजातगन्धैः ।

आराधयन्ति हि भवानि समुत्सुकास्त्वां

ते खल्वखण्डभुवनाधिभुवः प्रथन्ते ॥ ८ ॥

आविश्य मध्यपदवीं प्रथमे सरोजे

सुप्ता हि राजसदृशी विरचय्यविश्वम् ।

विद्युल्लतावलयविभ्रममुद्वहन्ती

पद्मानि पञ्च विदलय्य समश्नुवाना ॥ ९ ॥

तन्निर्गतामृतरसैः परिषिक्तगात्र-

-मार्गेण तेन विलयं पुनरप्यवाप्ता ।

येषां हृदि स्फुरसि जातु न ते भवेयु-

-र्मातर्महेश्वरकुटुम्बिनि गर्भभाजः ॥ १० ॥

आलम्बिकुण्डलभरामभिरामवक्त्रा-

-मापीवरस्तनतटीं तनुवृत्तमध्याम् ।

चिन्ताक्षसूत्रकलशालिखिताढ्यहस्ता-

-मावर्तयामि मनसा तव गौरि मूर्तिम् ॥ ११ ॥

आस्थाय योगमविजित्य च वैरिषट्क-

-माबद्ध्यचेन्द्रियगणं मनसि प्रसन्ने ।

पाशाङ्कुशाभयवराढ्यकरां सुवक्त्रा-

-मालोकयन्ति भुवनेश्वरि योगिनस्त्वाम् ॥ १२ ॥

उत्तप्तहाटकनिभा करिभिश्चतुर्भि-

-रावर्तितामृतघटैरभिषिच्यमाना ।

हस्तद्वयेन नलिने रुचिरे वहन्ती

पद्मापि साभयवरा भवसि त्वमेव ॥ १३ ॥

अष्टाभिरुग्रविविधायुधवाहिनीभि-

-र्दोर्वल्लरीभिरधिरुह्य मृगाधिराजम् ।

दूर्वादलद्युतिरमार्त्यविपक्षपक्षान्

न्यक्कुर्वती त्वमसि देवि भवानि दुर्गा ॥ १४ ॥

आविर्निदाघजलशीकरशोभिवक्त्रां

गुञ्जाफलेन परिकल्पितहारयष्टिम् ।

पीतांशुकामसितकान्तिमनङ्गतन्द्रा-

-माद्यां पुलिन्दतरुणीमसकृत्स्मरामि ॥ १५ ॥

हंसैर्गतिक्वणितनूपुरदूरदृष्टे

मूर्तैरिवार्थवचनैरनुगम्यमानौ ।

पद्माविवोर्ध्वमुखरूढसुजातनालौ

श्रीकण्ठपत्नि शिरसा विदधे तवाङ्घ्री ॥ १६ ॥

द्वाभ्यां समीक्षितुमतृप्तिमतेव दृग्भ्या-

-मुत्पाट्य भालनयनं वृषकेतनेन ।

सान्द्रानुरागतरलेन निरीक्ष्यमाणे

जङ्घे शुभे अपि भवानि तवानतोऽस्मि ॥ १७ ॥

ऊरू स्मरामि जितहस्तिकरावलेपौ

स्थौल्येन मार्दवतया परिभूतरम्भौ ।

श्रेणीभरस्य सहनौ परिकल्प्य दत्तौ

स्तम्भाविवाङ्गवयसा तव मध्यमेन ॥ १८ ॥

श्रोण्यौ स्तनौ च युगपत्प्रथयिष्यतोच्चै-

-र्बाल्यात्परेण वयसा परिहृष्टसारौ ।

रोमावलीविलसितेन विभाव्य मूर्तिं

मध्यं तव स्फुरतु मे हृदयस्य मध्ये ॥ १९ ॥

सख्यः स्मरस्य हरनेत्रहुताशशान्त्यै

लावण्यवारिभरितं नवयौवनेन ।

आपाद्य दत्तमिव पल्लवमप्रविष्टं

नाभिं कदापि तव देवि न विस्मरेयम् ॥ २० ॥

ईशेऽपि गेहपिशुनं भसितं दधाने

काश्मीरकर्दममनुस्तनपङ्कजे ते ।

स्नातोत्थितस्य करिणः क्षणलक्ष्यफेनौ

सिन्दूरितौ स्मरयतः समदस्य कुम्भौ ॥ २१ ॥

कण्ठातिरिक्तगलदुज्ज्वलकान्तिधारा-

-शोभौ भुजौ निजरिपोर्मकरध्वजेन ।

कण्ठग्रहाय रचितौ किल दीर्घपाशौ

मातर्मम स्मृतिपथं न विलङ्घयेताम् ॥ २२ ॥

नात्यायतं रचितकम्बुविलासचौर्यं

भूषाभरेण विविधेन विराजमानम् ।

कण्ठं मनोहरगुणं गिरिराजकन्ये

सञ्चिन्त्य तृप्तिमुपयामि कदापि नाहम् ॥ २३ ॥

अत्यायताक्षमभिजातललाटपट्‍टं

मन्दस्मितेन दरफुल्लकपोलरेखम् ।

बिम्बाधरं वदनमुन्नतदीर्घनासं

यस्ते स्मरत्यसकृदम्ब स एव जातः ॥ २४ ॥

आविस्तुषारकरलेखमनल्पगन्ध-

-पुष्पोपरिभ्रमदलिव्रजनिर्विशेषम् ।

यश्चेतसा कलयते तव केशपाशं

तस्य स्वयं गलति देवि पुराणपाशः ॥ २५ ॥

श्रुतिसुचरितपाकं श्रीमता स्तोत्रमेत-

-त्पठति य इह मर्त्यो नित्यमार्द्रान्तरात्मा ।

स भवति पदमुच्चैः सम्पदां पादनम्र-

-क्षितिपमुकुटलक्ष्मीलक्षणानां चिराय ॥ २६ ॥

इति श्रीरुद्रयामले तन्त्रे श्रीभुवनेश्वरी स्तोत्रम् ॥

sri bhuvaneshwari stotram