Skip to main content
पडताळणी प्रलंबित

श्री प्रत्यङ्गिरा स्तोत्रम् – ३

प्रत्यङ्गिरां आश्रितकल्पवल्लीं

अनन्तकल्याणगुणाभिरामाम् ।

सुरासुरेशार्चित पादपद्मां

सच्चित् परानन्दमयीं नमामि ॥ १ ॥

प्रत्यङ्गिरां सर्वजगत् प्रसूतिं

सर्वेश्वरीं सर्वभयापहन्त्रीम् ।

समस्त सम्पत् सुखदां समस्त-

-शरीरिणीं सर्वदृशां नमामि ॥ २ ॥

प्रत्यङ्गिरां कामदुघां निजाङ्घ्रि-

-पद्माश्रितानां परिपन्धि भीमाम् ।

श्यामां शिवां शङ्करदिव्यदीप्तिं

सिंहाकृतिं सिंहमुखीं नमामि ॥ ३ ॥

यन्त्राणि तन्त्राणि च मन्त्रजालं

कृत्याः परेषां च महोग्रकृत्ये ।

प्रत्यङ्गिरे ध्वंसय यन्त्र-तन्त्र-

-मन्त्रान् स्वकीयान् प्रकटी कुरुष्व ॥ ४ ॥

कुटुम्बवृद्धिं धनधान्यवृद्धिं

समस्त भोगान् अमितान् श्रियं च ।

समस्त विद्या सुविशारदत्वं

मतिं च मे देहि महोग्रकृत्ये ॥ ५ ॥

समस्त देशाधिपतीन् ममाशु

वशे शिवे स्थापय शत्रुसङ्घान् ।

हनाशु मे देवि महोग्रकृत्ये

प्रसीद देवेश्वरि भुक्ति मुक्तिः ॥ ६ ॥

जय प्रत्यङ्गिरे देवि जय विश्वमये शिवे ।

जय दुर्गे महादेवि महाकृत्ये नमोऽस्तु ते ॥ ७ ॥

जय प्रत्यङ्गिरे विष्णुविरिञ्चिशिवपूजिते ।

सत्यज्ञानानन्दमयि सर्वेश्वरि नमोऽस्तु ते ॥ ८ ॥

ब्रह्माण्डानां अशेषानां शरण्ये जगदम्बिके ।

अशेषजगदाराध्ये नमः प्रत्यङ्गिरेऽस्तु ते ॥ ९ ॥

प्रत्यङ्गिरे महाकृत्ये दुस्तरापन्निवारिणि ।

सकलापन्निवृत्तिं मे सर्वदा कुरु सर्वदे ॥ १० ॥

प्रत्यङ्गिरे जगन्मातर्जय श्री परमेश्वरि ।

तीव्रदारिद्र्यदुःखं मे क्षिप्रमेव हराम्बिके ॥ ११ ॥

प्रत्यङ्गिरे महामाये भीमे भीमपराक्रमे ।

मम शत्रूनशेषांस्त्वं दुष्टान्नाशय नाशय ॥ १२ ॥

प्रत्यङ्गिरे महादेवि ज्वालामालोज्वलानने ।

क्रूरग्रहान् अशेषान् त्वं दह खादाग्निलोचने ॥ १३ ॥

प्रत्यङ्गिरे महाघोरे परमन्त्रांश्च कृत्रिमान् ।

परकृत्या यन्त्रतन्त्रजालं छेदय छेदय ॥ १४ ॥

प्रत्यङ्गिरे विशालाक्षि परात्परतरे शिवे ।

देहि मे पुत्रपौत्रादि पारम्पर्योच्छ्रितां श्रियम् ॥ १५ ॥

प्रत्यङ्गिरे महादुर्गे भोगमोक्षफलप्रदे ।

सकलाभीष्टसिद्धिं मे देहि सर्वेश्वरेश्वरी ॥ १६ ॥

प्रत्यङ्गिरे महादेवि महादेवमनःप्रिये ।

मङ्गलं मे प्रयच्छाशु मनसा त्वां नमाम्यहम् ॥ १७ ॥

इति श्री प्रत्यङ्गिरा परमेश्वरि स्तोत्रम् ।

sri pratyangira stotram 3