Skip to main content
पडताळणी प्रलंबित

श्री लक्ष्मी स्तोत्रम् (त्रैलोक्य मङ्गलम्)

नमः कल्याणदे देवि नमोऽस्तु हरिवल्लभे ।

नमो भक्तिप्रिये देवि लक्ष्मीदेवि नमोऽस्तु ते ॥ १ ॥

नमो मायागृहीताङ्गि नमोऽस्तु हरिवल्लभे ।

सर्वेश्वरि नमस्तुभ्यं लक्ष्मीदेवि नमोऽस्तु ते ॥ २ ॥

महामाये विष्णुधर्मपत्नीरूपे हरिप्रिये ।

वाञ्छादात्रि सुरेशानि लक्ष्मीदेवि नमोऽस्तु ते ॥ ३ ॥

उद्यद्भानुसहस्राभे नयनत्रयभूषिते ।

रत्नाधारे सुरेशानि लक्ष्मीदेवि नमोऽस्तु ते ॥ ४ ॥

विचित्रवसने देवि भवदुःखविनाशिनि ।

कुचभारनते देवि लक्ष्मीदेवि नमोऽस्तु ते ॥ ५ ॥

साधकाभीष्टदे देवि अन्नदानरतेऽनघे ।

विष्ण्वानन्दप्रदे मातर्लक्ष्मीदेवि नमोऽस्तु ते ॥ ६ ॥

षट्कोणपद्ममध्यस्थे षडङ्गयुवतीमये ।

ब्रह्माण्यादिस्वरूपे च लक्ष्मीदेवि नमोऽस्तु ते ॥ ७ ॥

देवि त्वं चन्द्रवदने सर्वसाम्राज्यदायिनि ।

सर्वानन्दकरे देवि लक्ष्मीदेवि नमोऽस्तु ते ॥ ८ ॥

पूजाकाले पठेद्यस्तु स्तोत्रमेतत्समाहितः ।

तस्य गेहे स्थिरा लक्ष्मीर्जायते नात्र संशयः ॥ ९ ॥

इति त्रैलोक्यमङ्गलं नाम श्री लक्ष्मी स्तोत्रम् ।

trailokya mangala lakshmi stotram