Skip to main content
पडताळणी प्रलंबित

श्री आदिवाराही स्तोत्रम्

नमोऽस्तु देवी वाराहि जयैङ्कारस्वरूपिणि ।

जपित्वा भूमिरूपेण नमो भगवतः प्रिये ॥ १ ॥

जय क्रोडास्तु वाराहि देवी त्वां च नमाम्यहम् ।

जय वाराहि विश्वेशि मुख्यवाराहि ते नमः ॥ २ ॥

मुख्यवाराहि वन्दे त्वां अन्धे अन्धिनि ते नमः ।

सर्वदुष्टप्रदुष्टानां वाक्‍स्तम्भनकरी नमः ॥ ३ ॥

नमः स्तम्भिनि स्तम्भे त्वां जृम्भे जृम्भिणि ते नमः ।

रुन्धे रुन्धिनि वन्दे त्वां नमो देवी तु मोहिनी ॥ ४ ॥

स्वभक्तानां हि सर्वेषां सर्वकामप्रदे नमः ।

बाह्वोः स्तम्भकरी वन्दे चित्तस्तम्भनि ते नमः ॥ ५ ॥

चक्षुस्तम्भिनि त्वां मुख्यस्तम्भिनी ते नमो नमः ।

जगत् स्तम्भिनि वन्दे त्वां जिह्वस्तम्भनकारिणि ॥ ६ ॥

स्तम्भनं कुरु शत्रूणां कुरु मे शत्रुनाशनम् ।

शीघ्रं वश्यं च कुरुते योऽग्नौ वाचात्मिके नमः ॥ ७ ॥

ठचतुष्टयरूपे त्वां शरणं सर्वदा भजे ।

होमात्मके फड्रूपेण जय आद्यानने शिवे ॥ ८ ॥

देहि मे सकलान् कामान् वाराहि जगदीश्वरी ।

नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥ ९ ॥

इदमाद्यानना स्तोत्रं सर्वपापविनाशनम् ।

पठेद्यः सर्वदा भक्त्या पातकैर्मुच्यते तथा ॥ १० ॥

लभन्ते शत्रवो नाशं दुःखरोगापमृत्यवः ।

महदायुष्यमाप्नोति अलक्ष्मीर्नाशमाप्नुयात् ॥ ११ ॥

इति श्री आदिवाराही स्तोत्रम् ।

sri adi varahi stotram