Skip to main content
पडताळणी प्रलंबित

श्री सोमसुन्दराष्टकम्

इन्द्र उवाच ।

एकं ब्रह्माद्वितीयं च परिपूर्णं परापरम् ।

इति यो गीयते वेदैस्तं वन्दे सोमसुन्दरम् ॥ १ ॥

ज्ञातृज्ञानज्ञेयरूपं विश्वव्याप्यं व्यवस्थितम् ।

यं सर्वैरप्यदृश्योयस्तं वन्दे सोमसुन्दरम् ॥ २ ॥

अश्वमेधादियज्ञैश्च यः समाराध्यते द्विजैः ।

ददाति च फलं तेषां तं वन्दे सोमसुन्दरम् ॥ ३ ॥

यं विदित्वा बुधाः सर्वे कर्मबन्धविवर्जिताः ।

लभन्ते परमां मुक्तिं तं वन्दे सोमसुन्दरम् ॥ ४ ॥

देवदेवं यमाराध्य मृकण्डुतनयो मुनिः ।

नित्यत्वमगमत्सद्यस्तं वन्दे सोमसुन्दरम् ॥ ५ ॥

निजनेत्राम्बुजकृतं पूजया परितोष्ययम् ।

श्रीपतिर्लभते चक्रं तं वन्दे सोमसुन्दरम् ॥ ६ ॥

येन सर्वं जगत्सृष्टं रक्षितं संहृतं क्रमात् ।

नत्वं विज्ञानमानन्दं तं वन्दे सोमसुन्दरम् ॥ ७ ॥

यस्मात्परं चापरं च किञ्चिद्वस्तु न विद्यते ।

ईश्वरं सर्वभूतानां तं वन्दे सोमसुन्दरम् ॥ ८ ॥

यस्मै वेदाश्च चत्वारो नमस्यन्त वपुर्धराः ।

ईशानं सर्वविद्यानां तं वन्दे सोमसुन्दरम् ॥ ९ ॥

यस्य प्रणाममात्रेण सन्ति सर्वाश्च सम्पदः ।

सर्वसिद्धिप्रदं शम्भुं तं वन्दे सोमसुन्दरम् ॥ १० ॥

यस्य दर्शनमात्रेण ब्रह्महत्यादि पातकम् ।

अवश्यं नश्यति क्षिप्रं तं वन्दे सोमसुन्दरम् ॥ ११ ॥

उत्तमाङ्गं च चरणं ब्रह्मणा विष्णुनापि च ।

न दृश्यते यस्य यत्नस्तं वन्दे सोमसुन्दरम् ॥ १२ ॥

इति श्रीहालास्यमाहात्म्ये इन्द्रकृतं श्रीसोमसुन्दराष्टकम् ।

sri somasundara ashtakam