Skip to main content
पडताळणी प्रलंबित

श्री गणेश नामाष्टकम्

श्रीविष्णुरुवाच ।

गणेशमेकदन्तं च हेरम्बं विघ्ननायकम् ।

लम्बोदरं शूर्पकर्णं गजवक्त्रं गुहाग्रजम् ॥ १ ॥

नामाष्टार्थं च पुत्रस्य शृणु मातर्हरप्रिये ।

स्तोत्राणां सारभूतं च सर्वविघ्नहरं परम् ॥ २ ॥

ज्ञानार्थवाचको गश्च णश्च निर्वाणवाचकः ।

तयोरीशं परं ब्रह्म गणेशं प्रणमाम्यहम् ॥ ३ ॥

एकशब्दः प्रधानार्थो दन्तश्च बलवाचकः ।

बलं प्रधानं सर्वस्मादेकदन्तं नमाम्यहम् ॥ ४ ॥

दीनार्थवाचको हेश्च रम्बः पालकवाचकः ।

दीनानां परिपालकं हेरम्बं प्रणमाम्यहम् ॥ ५ ॥

विपत्तिवाचको विघ्नो नायकः खण्डनार्थकः ।

विपत्खण्डनकारकं नमामि विघ्ननायकम् ॥ ६ ॥

विष्णुदत्तैश्च नैवेद्यैर्यस्य लम्बोदरं पुरा ।

पित्रा दत्तैश्च विविधैर्वन्दे लम्बोदरं च तम् ॥ ७ ॥

शूर्पाकारौ च यत्कर्णौ विघ्नवारणकारणौ ।

सम्पदौ ज्ञानरूपौ च शूर्पकर्णं नमाम्यहम् ॥ ८ ॥

विष्णुप्रसादपुष्पं च यन्मूर्ध्नि मुनिदत्तकम् ।

तं गजेन्द्रवक्त्रयुक्तं गजवक्त्रं नमाम्यहम् ॥ ९ ॥

गुहस्याग्रे च जातोऽयमाविर्भूतो हरालये ।

वन्दे गुहाग्रजं देवं सर्वदेवाग्रपूजितम् ॥ १० ॥

एतन्नामाष्टकं स्तोत्रं नानार्थसम्युतं शुभम् ।

त्रिसन्ध्यं यः पठेन्नित्यं स सुखी सर्वतो जयी ॥ ११ ॥

ततो विघ्नाः पलायन्ते वैनतेयाद्यथोरगाः ।

गणेश्वरप्रसादेन महाज्ञानी भवेद्ध्रुवम् ॥ १२ ॥

पुत्रार्थी लभते पुत्रं भार्यार्थी विपुलां स्त्रियम् ।

महाजडः कवीन्द्रश्च विद्यावांश्च भवेद्ध्रुवम् ॥ १३ ॥

इति श्रीब्रह्मवैवर्ते गणपतिखण्डे विष्णूपदिष्टं श्रीगणेशनामाष्टकम् ।

sri ganesha namashtakam