Skip to main content
पडताळणी प्रलंबित

श्री ब्रह्म स्तुतिः

नमस्त्रिमूर्तये तुभ्यं प्राक्सृष्टेः केवलात्मने ।

गुणत्रयविभागाय पश्चाद्भेदमुपेयुषे ॥ १ ॥

यदमोघमपामन्तः उप्तं बीजमज त्वया ।

अतश्चराचरं विश्वं प्रभवस्तस्य गीयसे ॥ २ ॥

तिसृभिस्त्वमवस्थाभिः महिमानमुदीरयन् ।

प्रलयस्थितिसर्गाणां एकः कारणतां गतः ॥ ३ ॥

स्त्रीपुंसावात्मभागौ ते भिन्नमूर्तेः सिसृक्षया ।

प्रसूतिभाजः सर्गस्य तावेव पितरौ स्मृतौ ॥ ४ ॥

स्वकालपरिमाणेन व्यस्तरात्रिन्दिवस्य ते ।

यौ तु स्वप्नावबोधौ तौ भूतानां प्रलयोदयौ ॥ ५ ॥

जगद्योनिरयोनिस्त्वं जगदन्तो निरन्तकः ।

जगदादिरनादिस्त्वं जगदीशो निरीश्वरः ॥ ६ ॥

आत्मानमात्मना वेत्सि सृजस्यात्मानमात्मना ।

आत्मना कृतिना च त्वमात्मन्येव प्रलीयसे ॥ ७ ॥

द्रवःसङ्घात कठिनः स्थूलः सूक्ष्मो लघुर्गुरुः ।

व्यक्तो व्यक्ततरश्चासि प्राकाम्यं ते विभूतिषु ॥ ८ ॥

उद्घातः प्रणवो यासां न्यायैस्त्रिभिरुदीरणम् ।

कर्म यज्ञः फलं स्वर्गः तासां त्वं प्रभवो गिराम् ॥ ९ ॥

त्वामामनन्ति प्रकृतिं पुरुषार्थप्रवर्तिनीम् ।

तद्दर्शिनमुदासीनं त्वामेव पुरुषं विदुः ॥ १० ॥

त्वं पितॄणामपि पिता देवानामपि देवता ।

परतोऽपि परश्चासि विधाता वेधसामपि ॥ ११ ॥

त्वमेव हव्यं होता च भोज्यं भोक्ता च शाश्वतः ।

वेद्यं च वेदिता चासि ध्याता ध्येयं च यत्परम् ॥ १२ ॥

इति श्री ब्रह्म स्तुतिः ॥

sri brahma stuti