Skip to main content
पडताळणी प्रलंबित

श्री षोडशी अष्टोत्तरशतनाम स्तोत्रम्

भृगुरुवाच ।

चतुर्वक्त्र जगन्नाथ स्तोत्रं वद मयि प्रभो ।

यस्यानुष्ठानमात्रेण नरो भक्तिमवाप्नुयात् ॥ १ ॥

ब्रह्मोवाच ।

सहस्रनाम्नामाकृष्य नाम्नामष्टोत्तरं शतम् ।

गुह्याद्गुह्यतरं गुह्यं सुन्दर्याः परिकीर्तितम् ॥ २ ॥

अस्य श्रीषोडश्यष्टोत्तरशतनामस्तोत्रस्य शम्भुरृषिः अनुष्टुप् छन्दः श्रीषोडशी देवता धर्मार्थकाममोक्षसिद्ध्यर्थे जपे विनियोगः ।

त्रिपुरा षोडशी माता त्र्यक्षरा त्रितया त्रयी ।

सुन्दरी सुमुखी सेव्या सामवेदपरायणा ॥ ३ ॥

शारदा शब्दनिलया सागरा सरिदम्बरा ।

शुद्धा शुद्धतनुः साध्वी शिवध्यानपरायणा ॥ ४ ॥

स्वामिनी शम्भुवनिता शाम्भवी च सरस्वती ।

समुद्रमथिनी शीघ्रगामिनी शीघ्रसिद्धिदा ॥ ५ ॥

साधुसेव्या साधुगम्या साधुसन्तुष्टमानसा ।

खट्वाङ्गधारिणी खर्वा खड्गखर्परधारिणी ॥ ६ ॥

षड्वर्गभावरहिता षड्वर्गपरिचारिका ।

षड्वर्गा च षडङ्गा च षोढा षोडशवार्षिकी ॥ ७ ॥

क्रतुरूपा क्रतुमती ऋभुक्षक्रतुमण्डिता ।

कवर्गादिपवर्गान्ता अन्तस्थाऽनन्तरूपिणी ॥ ८ ॥

अकाराकाररहिता कालमृत्युजरापहा ।

तन्वी तत्त्वेश्वरी तारा त्रिवर्षा ज्ञानरूपिणी ॥ ९ ॥

काली कराली कामेशी छाया सञ्ज्ञाप्यरुन्धती ।

निर्विकल्पा महावेगा महोत्साहा महोदरी ॥ १० ॥

मेघा बलाका विमला विमलज्ञानदायिनी ।

गौरी वसुन्धरा गोप्त्री गवां पतिनिषेविता ॥ ११ ॥

भगाङ्गा भगरूपा च भक्तिभावपरायणा ।

छिन्नमस्ता महाधूमा तथा धूम्रविभूषणा ॥ १२ ॥

धर्मकर्मादिरहिता धर्मकर्मपरायणा ।

सीता मातङ्गिनी मेधा मधुदैत्यविनाशिनी ॥ १३ ॥

भैरवी भुवना माताऽभयदा भवसुन्दरी ।

भावुका बगला कृत्या बाला त्रिपुरसुन्दरी ॥ १४ ॥

रोहिणी रेवती रम्या रम्भा रावणवन्दिता ।

शतयज्ञमयी सत्त्वा शतक्रतुवरप्रदा ॥ १५ ॥

शतचन्द्रानना देवी सहस्रादित्यसन्निभा ।

सोमसूर्याग्निनयना व्याघ्रचर्माम्बरावृता ॥ १६ ॥

अर्धेन्दुधारिणी मत्ता मदिरा मदिरेक्षणा ।

इति ते कथितं गोप्यं नाम्नामष्टोत्तरं शतम् ॥ १७ ॥

सुन्दर्याः सर्वदं सेव्यं महापातकनाशनम् ।

गोपनीयं गोपनीयं गोपनीयं कलौ युगे ॥ १८ ॥

सहस्रनामपाठस्य फलं यद्वै प्रकीर्तितम् ।

तस्मात्कोटिगुणं पुण्यं स्तवस्यास्य प्रकीर्तनात् ॥ १९ ॥

पठेत्सदा भक्तियुतो नरो यो

निशीथकालेऽप्यरुणोदये वा ।

प्रदोषकाले नवमीदिनेऽथवा

लभेत भोगान्परमाद्भुतान्प्रियान् ॥ २० ॥

इति ब्रह्मयामले पूर्वखण्डे षोडश्यष्टोत्तरशतनाम स्तोत्रम् ।

sri shodashi ashtottara shatanama stotram