Skip to main content
पडताळणी प्रलंबित

अभिरामि स्तोत्रम्

नमस्ते ललिते देवि श्रीमत्सिंहासनेश्वरि ।

भक्तानामिष्टदे मातः अभिरामि नमोऽस्तु ते ॥ १ ॥

चन्द्रोदयं कृतवती ताटङ्केन महेश्वरि ।

आयुर्देहि जगन्मातः अभिरामि नमोऽस्तु ते ॥ २ ॥

सुधाघटेशश्रीकान्ते शरणागतवत्सले ।

आरोग्यं देहि मे नित्यं अभिरामि नमोऽस्तु ते ॥ ३ ॥

कल्याणि मङ्गलं देहि जगन्मङ्गलकारिणि ।

ऐश्वर्यं देहि मे नित्यं अभिरामि नमोऽस्तु ते ॥ ४ ॥

चन्द्रमण्डलमध्यस्थे महात्रिपुरसुन्दरि ।

श्रीचक्रराजनिलये अभिरामि नमोऽस्तु ते ॥ ५ ॥

राजीवलोचने पूर्णे पूर्णचन्द्रविधायिनि ।

सौभाग्यं देहि मे नित्यं अभिरामि नमोऽस्तु ते ॥ ६ ॥

गणेशस्कन्दजननि वेदरूपे धनेश्वरि ।

विद्यां च देहि मे कीर्तिं अभिरामि नमोऽस्तु ते ॥ ७ ॥

सुवासिनीप्रिये मातः सौमाङ्गल्यविवर्धिनी ।

माङ्गल्यं देहि मे नित्यं अभिरामि नमोऽस्तु ते ॥ ८ ॥

मार्कण्डेय महाभक्त सुब्रह्मण्य सुपूजिते ।

श्रीराजराजेश्वरी त्वं ह्यभिरामि नमोऽस्तु ते ॥ ९ ॥

सान्निध्यं कुरु कल्याणी मम पूजागृहे शुभे ।

बिम्बे दीपे तथा पुष्पे हरिद्रा कुङ्कुमे मम ॥ १० ॥

अभिराम्या इदं स्तोत्रं यः पठेच्छक्तिसन्निधौ ।

आयुर्बलं यशो वर्चो मङ्गलं च भवेत्सुखम् ॥ ११ ॥

इति श्रीअभिरामिभट्‍टार् कृत श्री अभिरामि स्तोत्रम् ।

abhirami stotram