Skip to main content
पडताळणी प्रलंबित

श्री सुब्रह्मण्य भुजङ्ग स्तोत्रम्

सदा बालरूपापि विघ्नाद्रिहन्त्री

महादन्तिवक्त्रापि पञ्चास्यमान्या ।

विधीन्द्रादिमृग्या गणेशाभिधा मे

विधत्तां श्रियं कापि कल्याणमूर्तिः ॥ १ ॥

न जानामि शब्दं न जानामि चार्थं

न जानामि पद्यं न जानामि गद्यम् ।

चिदेका षडास्या हृदि द्योतते मे

मुखान्निःसरन्ते गिरश्चापि चित्रम् ॥ २ ॥

मयूराधिरूढं महावाक्यगूढं

मनोहारिदेहं महच्चित्तगेहम् ।

महीदेवदेवं महावेदभावं

महादेवबालं भजे लोकपालम् ॥ ३ ॥

यदा संनिधानं गता मानवा मे

भवाम्भोधिपारं गतास्ते तदैव ।

इति व्यञ्जयन्सिन्धुतीरे य आस्ते

तमीडे पवित्रं पराशक्तिपुत्रम् ॥ ४ ॥

यथाब्धेस्तरङ्गा लयं यान्ति तुङ्गा-

-स्तथैवापदः संनिधौ सेवतां मे ।

इतीवोर्मिपङ्क्तीर्नृणां दर्शयन्तं

सदा भावये हृत्सरोजे गुहं तम् ॥ ५ ॥

गिरौ मन्निवासे नरा येऽधिरूढा-

-स्तदा पर्वते राजते तेऽधिरूढाः ।

इतीव ब्रुवन्गन्धशैलाधिरूढः

स देवो मुदे मे सदा षण्मुखोऽस्तु ॥ ६ ॥

महाम्भोधितीरे महापापचोरे

मुनीन्द्रानुकूले सुगन्धाख्यशैले ।

गुहायां वसन्तं स्वभासा लसन्तं

जनार्तिं हरन्तं श्रयामो गुहं तम् ॥ ७ ॥

लसत्स्वर्णगेहे नृणां कामदोहे

सुमस्तोमसञ्छन्नमाणिक्यमञ्चे ।

समुद्यत्सहस्रार्कतुल्यप्रकाशं

सदा भावये कार्तिकेयं सुरेशम् ॥ ८ ॥

रणद्धंसके मञ्जुलेऽत्यन्तशोणे

मनोहारिलावण्यपीयूषपूर्णे ।

मनःषट्पदो मे भवक्लेशतप्तः

सदा मोदतां स्कन्द ते पादपद्मे ॥ ९ ॥

सुवर्णाभदिव्याम्बरैर्भासमानां

क्वणत्किङ्किणीमेखलाशोभमानाम् ।

लसद्धेमपट्‍टेन विद्योतमानां

कटिं भावये स्कन्द ते दीप्यमानाम् ॥ १० ॥

पुलिन्देशकन्याघनाभोगतुङ्ग-

-स्तनालिङ्गनासक्तकाश्मीररागम् ।

नमस्याम्यहं तारकारे तवोरः

स्वभक्तावने सर्वदा सानुरागम् ॥ ११ ॥

विधौ क्लुप्तदण्डान्स्वलीलाधृताण्डा-

-न्निरस्तेभशुण्डान्द्विषत्कालदण्डान् ।

हतेन्द्रारिषण्डान् जगत्राणशौण्डा-

-न्सदा ते प्रचण्डान् श्रये बाहुदण्डान् ॥ १२ ॥

सदा शारदाः षण्मृगाङ्का यदि स्युः

समुद्यन्त एव स्थिताश्चेत्समन्तात् ।

सदा पूर्णबिम्बाः कलङ्कैश्च हीना-

-स्तदा त्वन्मुखानां ब्रुवे स्कन्द साम्यम् ॥ १३ ॥

स्फुरन्मन्दहासैः सहंसानि चञ्च-

-त्कटाक्षावलीभृङ्गसङ्घोज्ज्वलानि ।

सुधास्यन्दिबिम्बाधराणीशसूनो

तवालोकये षण्मुखाम्भोरुहाणि ॥ १४ ॥

विशालेषु कर्णान्तदीर्घेष्वजस्रं

दयास्यन्दिषु द्वादशस्वीक्षणेषु ।

मयीषत्कटाक्षः सकृत्पातितश्चे-

-द्भवेत्ते दयाशील का नाम हानिः ॥ १५ ॥

सुताङ्गोद्भवो मेऽसि जीवेति षड्धा

जपन्मन्त्रमीशो मुदा जिघ्रते यान् ।

जगद्भारभृद्भ्यो जगन्नाथ तेभ्यः

किरीटोज्ज्वलेभ्यो नमो मस्तकेभ्यः ॥ १६ ॥

स्फुरद्रत्नकेयूरहाराभिराम-

-श्चलत्कुण्डलश्रीलसद्गण्डभागः ।

कटौ पीतवासाः करे चारुशक्तिः

पुरस्तान्ममास्तां पुरारेस्तनूजः ॥ १७ ॥

इहायाहि वत्सेति हस्तान्प्रसार्या-

-ह्वयत्यादराच्छङ्करे मातुरङ्कात् ।

समुत्पत्य तातं श्रयन्तं कुमारं

हराश्लिष्टगात्रं भजे बालमूर्तिम् ॥ १८ ॥

कुमारेशसूनो गुह स्कन्द सेना-

-पते शक्तिपाणे मयूराधिरूढ ।

पुलिन्दात्मजाकान्त भक्तार्तिहारिन्

प्रभो तारकारे सदा रक्ष मां त्वम् ॥ १९ ॥

प्रशान्तेन्द्रिये नष्टसञ्ज्ञे विचेष्टे

कफोद्गारिवक्त्रे भयोत्कम्पिगात्रे ।

प्रयाणोन्मुखे मय्यनाथे तदानीं

द्रुतं मे दयालो भवाग्रे गुह त्वम् ॥ २० ॥

कृतान्तस्य दूतेषु चण्डेषु कोपा-

-द्दहच्छिन्द्धि भिन्द्धीति मां तर्जयत्सु ।

मयूरं समारुह्य मा भैरिति त्वं

पुरः शक्तिपाणिर्ममायाहि शीघ्रम् ॥ २१ ॥

प्रणम्यासकृत्पादयोस्ते पतित्वा

प्रसाद्य प्रभो प्रार्थयेऽनेकवारम् ।

न वक्तुं क्षमोऽहं तदानीं कृपाब्धे

न कार्यान्तकाले मनागप्युपेक्षा ॥ २२ ॥

सहस्राण्डभोक्ता त्वया शूरनामा

हतस्तारकः सिंहवक्त्रश्च दैत्यः ।

ममान्तर्हृदिस्थं मनःक्लेशमेकं

न हंसि प्रभो किं करोमि क्व यामि ॥ २३ ॥

अहं सर्वदा दुःखभारावसन्नो

भवान् दीनबन्धुस्त्वदन्यं न याचे ।

भवद्भक्तिरोधं सदा क्लप्तबाधं

ममाधिं द्रुतं नाशयोमासुत त्वम् ॥ २४ ॥

अपस्मारकुष्ठक्षयार्शः प्रमेह-

-ज्वरोन्मादगुल्मादिरोगा महान्तः ।

पिशाचाश्च सर्वे भवत्पत्रभूतिं

विलोक्य क्षणात्तारकारे द्रवन्ते ॥ २५ ॥

दृशि स्कन्दमूर्तिः श्रुतौ स्कन्दकीर्ति-

-र्मुखे मे पवित्रं सदा तच्चरित्रम् ।

करे तस्य कृत्यं वपुस्तस्य भृत्यं

गुहे सन्तु लीना ममाशेषभावाः ॥ २६ ॥

मुनीनामुताहो नृणां भक्तिभाजा-

-मभीष्टप्रदाः सन्ति सर्वत्र देवाः ।

नृणामन्त्यजानामपि स्वार्थदाने

गुहाद्देवमन्यं न जाने न जाने ॥ २७ ॥

कलत्रं सुता बन्धुवर्गः पशुर्वा

नरो वाथ नारी गृहे ये मदीयाः ।

यजन्तो नमन्तः स्तुवन्तो भवन्तं

स्मरन्तश्च ते सन्तु सर्वे कुमार ॥ २८ ॥

मृगाः पक्षिणो दंशका ये च दुष्टा-

-स्तथा व्याधयो बाधका ये मदङ्गे ।

भवच्छक्तितीक्ष्णाग्रभिन्नाः सुदूरे

विनश्यन्तु ते चूर्णितक्रौञ्चशैल ॥ २९ ॥

जनित्री पिता च स्वपुत्रापराधं

सहेते न किं देवसेनाधिनाथ ।

अहं चातिबालो भवान् लोकतातः

क्षमस्वापराधं समस्तं महेश ॥ ३० ॥

नमः केकिने शक्तये चापि तुभ्यं

नमश्छाग तुभ्यं नमः कुक्कुटाय ।

नमः सिन्धवे सिन्धुदेशाय तुभ्यं

पुनः स्कन्दमूर्ते नमस्ते नमोऽस्तु ॥ ३१ ॥

जयानन्दभूमं जयापारधामं

जयामोघकीर्ते जयानन्दमूर्ते ।

जयानन्दसिन्धो जयाशेषबन्धो

जय त्वं सदा मुक्तिदानेशसूनो ॥ ३२ ॥

भुजङ्गाख्यवृत्तेन क्लप्तं स्तवं यः

पठेद्भक्तियुक्तो गुहं सम्प्रणम्य ।

स पुत्रान्कलत्रं धनं दीर्घमायु-

-र्लभेत्स्कन्दसायुज्यमन्ते नरः सः ॥ ३३ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्रीसुब्रह्मण्यभुजङ्गम् ॥

टिप्पणि: ऊपर दिया गया स्तोत्र इस पुस्तक में उपलब्ध है ।

( पारायण ग्रन्थम् )

subrahmanya bhujanga stotram in hindi