Skip to main content
पडताळणी प्रलंबित

श्री दक्षिणामूर्ति दशकम्

पुन्नागवारिजात-

-प्रभृतिसुमस्रग्विभूषितग्रीवः ।

पुरगर्वमर्दनचणः

पुरतो मम भवतु दक्षिणामूर्तिः ॥ १ ॥

पूजितपदाम्बुजातः

पुरुषोत्तमदेवराजपद्मभवैः ।

पूगप्रदः कलानां

पुरतो मम भवतु दक्षिणामूर्तिः ॥ २ ॥

हालाहलोज्ज्वलगलः

शैलादिप्रवरगणैर्वीतः ।

कालाहङ्कृतिदलनः

पुरतो मम भवतु दक्षिणामूर्तिः ॥ ३ ॥

कैलासशैलनिलयो

लीलालेशेन निर्मिताजाण्डः ।

बालाब्जकृतावतंसः

पुरतो मम भवतु दक्षिणामूर्तिः ॥ ४ ॥

चेलाजितकुन्ददुग्धो

लोलः शैलाधिराजतनयायाम् ।

फालविराजद्वह्निः

पुरतो मम भवतु दक्षिणामूर्तिः ॥ ५ ॥

न्यग्रोधमूलवासी

न्यक्कृतचन्द्रो मुखाम्बुजातेन ।

पुण्यैकलभ्यचरणः

पुरतो मम भवतु दक्षिणामूर्तिः ॥ ६ ॥

मन्दार आनततते-

-र्बृन्दारकबृन्दवन्दितपदाब्जः ।

वन्दारुपूर्णकरुणः

पुरतो मम भवतु दक्षिणामूर्तिः ॥ ७ ॥

मुक्तामालाभूष-

-स्त्यक्ताशप्रवरयोगिभिः सेव्यः ।

भक्ताखिलेष्टदायी

पुरतो मम भवतु दक्षिणामूर्तिः ॥ ८ ॥

मुद्रामालामृतघट-

-पुस्तकराजत्कराम्भोजः ।

मुक्तिप्रदाननिरतः

पुरतो मम भवतु दक्षिणामूर्तिः ॥ ९ ॥

स्तोकार्चनपरितुष्टः

शोकापहपादपङ्कजस्मरणः ।

लोकावनकृतदीक्षः

पुरतो मम भवतु दक्षिणामूर्तिः ॥ १० ॥

इति श्रीसच्चिदानन्दशिवाभिनवनृसिंहभारती स्वामिभिः विरचितं श्री दक्षिणामूर्ति दशकम् ।

sri dakshinamurthy dashakam