Skip to main content
पडताळणी प्रलंबित

श्री वाग्वादिनी षट्कम्

वरदाप्यहेतुकरुणा-

-जन्मावनिरपि पयोजभवजाये ।

किं कुरुषे न कृपां मयि

वद वद वाग्वादिनि स्वाहा ॥ १ ॥

किं वा ममास्ति महती

पापततिस्तत्प्रभेदने तरसा ।

किं वा न तेऽस्ति शक्तिर्वद

वद वाग्वादिनि स्वाहा ॥ २ ॥

किं जीवः परमशिवा-

-द्भिन्नोऽभिन्नोऽथ भेदश्च ।

औपाधिकः स्वतो वा

वद वद वाग्वादिनि स्वाहा ॥ ३ ॥

वियदादिकं जगदिदं

सर्वं मिथ्याऽथवा सत्यम् ।

मिथ्यात्वधीः कथं स्या-

-द्वद वद वाग्वादिनि स्वाहा ॥ ४ ॥

ज्ञानं कर्म च मिलितं

हेतुर्मोक्षेऽथवा ज्ञानम् ।

तज्ज्ञानं केन भवे-

-द्वद वद वाग्वादिनि स्वाहा ॥ ५ ॥

ज्ञानं विचारसाध्यं

किं वा योगेन कर्मसाहस्रैः ।

कीदृक्सोऽपि विचारो

वद वद वाग्वादिनि स्वाहा ॥ ६ ॥

इति श्रीसच्चिदानन्दशिवाभिनवनृसिंहभारतीस्वामिभिः विरचितं श्री वाग्वादिनी षट्कम् ॥

sri vagvadini shatkam