Skip to main content
पडताळणी प्रलंबित

श्री शिव नवरत्न स्तवः

बृहस्पतिरुवाच ।

नमो हराय देवाय महामाया त्रिशूलिने ।

तापसाय महेशाय तत्त्वज्ञानप्रदायिने ॥ १ ॥

नमो मौञ्जाय शुद्धाय नमः कारुण्यमूर्तये ।

नमो देवाधिदेवाय नमो वेदान्तदायिने ॥ २ ॥

नमः पराय रुद्राय सुपाराय नमो नमः ।

विश्वमूर्ते महेशाय विश्वाधाराय ते नमः ॥ ३ ॥

नमो भक्तभवच्छेदकारणायाऽमलात्मने ।

कालकालाय कालाय कालातीताय ते नमः ॥ ४ ॥

जितेन्द्रियाय नित्याय जितक्रोधाय ते नमः ।

नमः पाषण्डभङ्गाय नमः पापहराय ते ॥ ५ ॥

नमः पर्वतराजेन्द्रकन्यकापतये नमः ।

योगानन्दाय योगाय योगिनां पतये नमः ॥ ६ ॥

प्राणायामपराणां तु प्राणरक्षाय ते नमः ।

मूलाधारे प्रविष्टाय मूलदीपात्मने नमः ॥ ७ ॥

नाभिकन्दे प्रविष्टाय नमो हृद्देशवर्तिने ।

सच्चिदानन्दपूर्णाय नमः साक्षात्परात्मने ॥ ८ ॥

नमः शिवायाद्भुतविक्रमाय ते

नमः शिवायाद्भुतविग्रहाय ते ।

नमः शिवायाखिलनायकाय ते

नमः शिवायामृतहेतवे नमः ॥ ९ ॥

सूत उवाच ।

य इदं पठते नित्यं स्तोत्रं भक्त्या सुसम्युतः ।

तस्य मुक्तिः करस्था स्याच्छङ्करप्रियकारणात् ॥ १० ॥

विद्यार्थी लभते विद्यां विवाहार्थी गृही भवेत् ।

वैराग्यकामो लभते वैराग्यं भवतारकम् ॥ ११ ॥

तस्माद्दिने दिने यूयमिदं स्तोत्रं समाहिताः ।

पठन्तु भवनाशार्थमिदं वो भवनाशनम् ॥ १२ ॥

इति श्रीस्कान्दे महापुराणे सूतसंहितायां बृहस्पतिकृत शिव नवरत्न स्तवः ॥

sri shiva navaratna stava