Skip to main content
पडताळणी प्रलंबित

श्री बाला त्रिपुरसुन्दरी रक्षा स्तोत्रम्

सर्वलोकैकजननी सर्वाभीष्टफलप्रदे ।

रक्ष मां क्षुद्रजालेभ्यः पातकेभ्यश्च सर्वदा ॥ १ ॥

जगद्धिते जगन्नेत्रि जगन्मातर्जगन्मये ।

जगद्दुरितजालेभ्यो रक्ष मामहितं हर ॥ २ ॥

वाङ्मनः कायकरणैर्जन्मान्तरशतार्जितम् ।

पापं नाशय देवेशि पाहि मां कृपयाऽनिशम् ॥ ३ ॥

जन्मान्तरसहस्रेषु यत्कृतं दुष्कृतं मया ।

तन्निवारय मां पाहि शरण्ये भक्तवत्सले ॥ ४ ॥

मया कृतान्यशेषाणि मदीयैश्च कृतानि च ।

पापानि नाशयस्वाद्य पाहि मां परदेवते ॥ ५ ॥

ज्ञानाज्ञानकृतैः पापैः साम्प्राप्तं दुरितं क्षणात् ।

निवारय जगन्मातरखिलैरनिवारितम् ॥ ६ ॥

असत्कार्य निवृत्तिं च सत्कार्यस्य प्रवर्तनम् ।

देवतात्मानुसन्धानं देहि मे परमेश्वरि ॥ ७ ॥

सर्वावरणविद्यानां सन्धानेनानुचिन्तनम् ।

देशिकाङ्घ्रिस्मृतिं चैव देहि मे जगदीश्वरि ॥ ८ ॥

अनुस्यूतपरब्रह्मानन्दामृतनिषेवणम् ।

अत्यन्तनिश्चलं चित्तं देहि मे परमेश्वरि ॥ ९ ॥

सदाशिवाद्यैर्धात्र्यन्तैः देवताभिर्मुनीश्वरैः ।

उपासितं पदं यत्तद्देहि मे परमेश्वरि ॥ १० ॥

इन्द्रादिभिरशेषैश्च देवैरसुरराक्षसैः ।

कृतं विघ्नं निवार्याशु कृपया रक्ष रक्ष माम् ॥ ११ ॥

आत्मानमात्मनः स्निग्धमाश्रितं परिचारकम् ।

द्रव्यदं बन्धुवर्गं च देवेशि परिरक्ष नः ॥ १२ ॥

उपासकस्य यो यो मे यथाशक्त्यनुकूलकृत् ।

सुहृदं रक्ष तं नित्यं द्विषन्तमनुकूलय ॥ १३ ॥

दैहिकादैहिकान्नानाहेतुकात्केवलाद्भयात् ।

पाहि मां प्रणतापत्तिभञ्जने विश्वलोचने ॥ १४ ॥

नित्यानन्दमयं सौख्यं निर्मलं निरूपाधिकम् ।

देहि मे निश्चलां भक्तिं निखिलाभिष्टसिद्धिदे ॥ १५ ॥

यन्मया सकलोपायैः करणीयमितः परम् ।

तत्सर्वं बोधयस्वाम्ब सर्वलोकहिते रते ॥ १६ ॥

प्रदेहि बुद्धियोगं तं येन त्वामुपयाम्यहम् ।

कामानां हृद्यसंरोहं देहि मे कृपयेश्वरि ॥ १७ ॥

भवाब्धौ पतितं भीतमनाथं दीनमानसम् ।

उद्धृत्य कृपया देवि निधेहि चरणाम्बुजे ॥ १८ ॥

इति श्री बाला रक्षा स्तोत्रम् ।

sri bala tripurasundari raksha stotram