Skip to main content
पडताळणी प्रलंबित

श्री हरिहर अष्टोत्तर शतनाम स्तोत्रम्

श्री हरिहर अष्टोत्तर शतनामावली >>

गोविन्द माधव मुकुन्द हरे मुरारे

शम्भो शिवेश शशिशेखर शूलपाणे ।

दामोदराऽच्युत जनार्दन वासुदेव

त्याज्या भटा य इति सन्ततमामनन्ति ॥ १ ॥

गङ्गाधराऽन्धकरिपो हर नीलकण्ठ

वैकुण्ठ कैटभरिपो कमठाऽब्जपाणे ।

भूतेश खण्डपरशो मृड चण्डिकेश

त्याज्या भटा य इति सन्ततमामनन्ति ॥ २ ॥

विष्णो नृसिंह मधुसूदन चक्रपाणे

गौरीपते गिरिश शङ्कर चन्द्रचूड ।

नारायणाऽसुरनिबर्हण शार्ङ्गपाणे

त्याज्या भटा य इति सन्ततमामनन्ति ॥ ३ ॥

मृत्युञ्जयोग्र विषमेक्षण कामशत्रो

श्रीकान्त पीतवसनाऽम्बुदनील शौरे ।

ईशान कृत्तिवसन त्रिदशैकनाथ

त्याज्या भटा य इति सन्ततमामनन्ति ॥ ४ ॥

लक्ष्मीपते मधुरिपो पुरुषोत्तमाद्य

श्रीकण्ठ दिग्वसन शान्त पिनाकपाणे ।

आनन्दकन्द धरणीधर पद्मनाभ

त्याज्या भटा य इति सन्ततमामनन्ति ॥ ५ ॥

सर्वेश्वर त्रिपुरसूदन देवदेव

ब्रह्मण्यदेव गरुडध्वज शङ्खपाणे ।

त्र्यक्षोरगाभरण बालमृगाङ्कमौले

त्याज्या भटा य इति सन्ततमामनन्ति ॥ ६ ॥

श्रीराम राघव रमेश्वर रावणारे

भूतेश मन्मथरिपो प्रमथाधिनाथ ।

चाणूरमर्दन हृषीकपते मुरारे

त्याज्या भटा य इति सन्ततमामनन्ति ॥ ७ ॥

शूलिन् गिरीश रजनीशकलावतंस

कंसप्रणाशन सनातन केशिनाश ।

भर्ग त्रिनेत्र भव भूतपते पुरारे

त्याज्या भटा य इति सन्ततमामनन्ति ॥ ८ ॥

गोपीपते यदुपते वसुदेवसूनो

कर्पूरगौर वृषभध्वज फालनेत्र ।

गोवर्धनोद्धरण धर्मधुरीण गोप

त्याज्या भटा य इति सन्ततमामनन्ति ॥ ९ ॥

स्थाणो त्रिलोचन पिनाकधर स्मरारे

कृष्णाऽनिरुद्ध कमलाकर कल्मषारे ।

विश्वेश्वर त्रिपथगार्द्रजटाकलाप

त्याज्या भटा य इति सन्ततमामनन्ति ॥ १० ॥

अष्टोत्तराधिकशतेन सुचारुनाम्नां

सन्दर्भितां ललितरत्नकदम्बकेन ।

सन्नायकां दृढगुणां निजकण्ठगतां यो

कुर्यादिमां स्रजमहो स यमं न पश्येत् ॥ ११ ॥

गणावूचुः –

इत्थं द्विजेन्द्र निजभृत्यगणान्सदैव

संशिक्षयेदवनिगान्स हि धर्मराजः ।

अन्येऽपि ये हरिहराङ्कधरा धरायां

ते दूरतः पुनरहो परिवर्जनीयाः ॥ १२ ॥

अगस्त्य उवाच –

यो धर्मराज रचितां ललितप्रबन्धां

नामावळिं सकलकल्मषबीजहन्त्रीम् ।

धीरोऽत्र कौस्तुभभृतः शशिभूषणस्य

नित्यं जपेत् स्तनरसं न पिबेत्स मातुः ॥ १३ ॥

इति शृण्वन्कथां रम्यां शिव शर्मा प्रियेऽनघाम् ।

प्रहर्षवक्त्रः पुरतो ददर्श सरसीं पुरीम् ॥ १४ ॥

इति श्रीस्कन्दमहापुराणे काशीखण्डपूर्वार्धे यमप्रोक्तं श्रीहरिहराष्टोत्तर शतनामस्तोत्रं सम्पूर्णम् ॥

sri harihara ashtottara shatanama stotram in hindi