Skip to main content
पडताळणी प्रलंबित

श्री वश्यवाराही स्तोत्रम्

श्री वश्यवाराही स्तोत्रम्

अस्य श्री वश्यवाराही स्तोत्र महामन्त्रस्य नारद ऋषिः अनुष्टुप् छन्दः श्री वश्यवाराही देवता ऐं बीजं क्लीं शक्तिः ग्लौं कीलकं मम सर्ववशार्थे जपे विनियोगः ।

ऋष्यादिन्यासः –

नारद ऋषये नमः शिरसि ।

अनुष्टुप् छन्दसे नमः मुखे ।

वश्यवाराहि देवतायै नमः हृदये ।

ऐं बीजाय नमः गुह्ये ।

क्लीं शक्तये नमः पादयोः ।

ग्लौं कीलकाय नमः नभौ ।

मम सर्ववशार्थे जपे विनियोगाय नमः सर्वाङ्गे ।

करन्यासः –

ओं ऐं अङ्गुष्ठाभ्यां नमः ।

ओं क्लीं तर्जनीभ्यां नमः ।

ओं ग्लौं मध्यमाभ्यां नमः ।

ओं अश्वारूढा अनामिकाभ्यां नमः ।

ओं सर्ववश्यवाराह्यै कनिष्ठिकाभ्यां नमः ।

ओं मम सर्ववशङ्करि कुरु कुरु ठः ठः करतलकरपृष्ठाभ्यां नमः ।

हृदयादिन्यासः –

ओं ऐं हृदयाय नमः ।

ओं क्लीं शिरसे स्वाहा ।

ओं ग्लौं शिखायै वषट् ।

ओं अश्वारूढा कवचाय हुम् ।

ओं सर्ववश्यवाराह्यै नेत्रत्रयाय वौषट् ।

ओं मम सर्ववशङ्करि कुरु कुरु ठः ठः अस्त्राय फट् ।

अथ ध्यानम् –

तारे तारिणि देवि विश्वजननि प्रौढप्रतापान्विते

तारे दिक्षु विपक्ष यक्ष दलिनि वाचा चला वारुणी ।

लक्ष्मीकारिणि कीर्तिधारिणि महासौभाग्यसन्धायिनि

रूपं देहि यशश्च देहि सततं वश्यं जगत्यावृतम् ॥

लमित्यादि पञ्चपूजाः –

लं पृथिव्यात्मिकायै गन्धं परिकल्पयामि ।

हं आकाशात्मिकायै पुष्पं परिकल्पयामि ।

यं वाय्वात्मिकायै धूपं परिकल्पयामि ।

रं अग्न्यात्मिकायै दीपं परिकल्पयामि ।

वं अमृतात्मिकायै नैवेद्यं परिकल्पयामि ।

सं सर्वात्मिकायै सर्वोपचारान् परिकल्पयामि ।

अथ मन्त्रः –

ओं ऐं क्लीं ग्लौं अश्वारूढा सर्ववश्यवाराही मम सर्ववशङ्करि कुरु कुरु ठः ठः ॥

अथ स्तोत्रम् –

अश्वारूढे रक्तवर्णे स्मितसौम्यमुखाम्बुजे ।

राज्यस्त्री सर्वजन्तूनां वशीकरणनायिके ॥ १ ॥

वशीकरणकार्यार्थं पुरा देवेन निर्मितम् ।

तस्माद्वश्यवाराही सर्वान्मे वशमानय ॥ २ ॥

यथा राजा महाज्ञानं वस्त्रं धान्यं महावसु ।

मह्यं ददाति वाराहि यथा त्वं वशमानय ॥ ३ ॥

अन्तर्बहिश्च मनसि व्यापारेषु सभासु च ।

यथा मामेवं स्मरति तथा वश्यं वशं कुरु ॥ ४ ॥

चामरं दोलिकां छत्रं राजचिह्नानि यच्छति ।

अभीष्टं सम्प्रदोराज्यं यथा देवि वशं कुरु ॥ ५ ॥

मन्मथस्मरणाद्रामारतिर्यातु मया सह ।

स्त्रीरत्नेषु महत्प्रेम तथा जनय कामदे ॥ ६ ॥

मृगपक्ष्यादयाः सर्वे मां दृष्ट्वा प्रेममोहिताः ।

अनुगच्छति मामेव त्वत्प्रसादाद्दयां कुरु ॥ ७ ॥

वशीकरणकार्यार्थं यत्र यत्र प्रयुञ्जति ।

सम्मोहनार्थं वर्धित्वात्तत्कार्यं तत्र कर्षय ॥ ८ ॥

वशमस्तीति चैवात्र वश्यकार्येषु दृश्यते ।

तथा मां कुरु वाराही वश्यकार्य प्रदर्शय ॥ ९ ॥

वशीकरण बाणास्त्रं भक्त्यापद्धिनिवारणम् ।

तस्माद्वश्यवाराही जगत्सर्वं वशं कुरु ॥ १० ॥

वश्यस्तोत्रमिदं देव्या त्रिसन्ध्यं यः पठेन्नरः ।

अभीष्टं प्राप्नुयाद्भक्तो रमां राज्यं यथापि वः ॥ ११ ॥

इति अथर्वशिखायां श्री वश्यवाराही स्तोत्रम् ।

sri vasya varahi stotram