Skip to main content
पडताळणी प्रलंबित

श्री बाला मकरन्द स्तवः

श्रीरुद्र उवाच ।

शृणु देवि प्रवक्ष्यामि मकरन्दस्तवं शुभम् ।

गोप्याद्गोप्यतरं गोप्यं महाकौतूहलं परम् ॥ १ ॥

बालायाः परमेशान्याः स्तोत्रचूडामणिः शिवे ।

मकरन्दस्य स्तोत्रस्य ऋषिर्नारदसञ्ज्ञकः ॥ २ ॥

छन्दोऽनुष्टुपुदाख्यातं श्रीबाला देवता स्मृता ।

ऐं बीजं शक्तिः सौः प्रोक्तं कीलकं क्लीं तथैव च ॥ ३ ॥

भोगमोक्षस्य सिद्ध्यर्थे विनियोगः प्रकीर्तितः ।

नमस्तेऽस्तु परां शक्तिं नमस्ते भक्तवत्सले ॥ ४ ॥

नमस्तेऽस्तु गुणातीतां बालां सिद्धिप्रदाम्बिकाम् ।

भवदुःखाब्धितरणीं परं निर्वाणदायिनीम् ॥ ५ ॥

धनदां ज्ञानदां सत्यां श्रीबालां प्रणमाम्यहम् ।

सिद्धिप्रदां ज्ञानरूपां चतुर्वर्गफलप्रदाम् ॥ ६ ॥

आधिव्याधिहरां वन्दे श्रीबालां परमेश्वरीम् ।

ऐङ्काररूपिणीं भद्रां क्लीङ्कारगुणसम्भवाम् ॥ ७ ॥

सौःकाररूपरूपेशीं बालां बालार्कसन्निभाम् ।

ऊर्ध्वाम्नायेश्वरीं देवीं रक्तां रक्तविलेपनाम् ॥ ८ ॥

रक्तवस्त्रधरां सौम्यां श्रीबालां प्रणमाम्यहम् ।

राजराजेश्वरीं देवीं रजोगुणात्मिकां भजे ॥ ९ ॥

ब्रह्मविद्यां महामायां त्रिगुणात्मकरूपिणीम् ।

पञ्चप्रेतासनस्थां च पञ्चमकारभक्षकाम् ॥ १० ॥

पञ्चभूतात्मिकां चैव नमस्ते करुणामयीम् ।

सर्वदुःखहरां दिव्यां सर्वसौख्यप्रदायिनीम् ॥ ११ ॥

सिद्धिदां मोक्षदां भद्रां श्रीबालां भावयाम्यहम् ।

नमस्तस्यै महादेव्यै देवदेवेश्वरि परे ॥ १२ ॥

सर्वोपद्रवनाशिन्यै बालायै सततं नमः ।

गुह्याद्गुह्यतरां गुप्तां गुह्येशीं देवपूजिताम् ॥ १३ ॥

हरमौलिस्थितां देवीं बालां वाक्सिद्धिदां शिवाम् ।

व्रणहां सोमतिलकां सोमपानरतां पराम् ॥ १४ ॥

सोमसूर्याग्निनेत्रां च वन्देऽहं हरवल्लभाम् ।

अचिन्त्याकाररूपाख्यां ओङ्काराक्षररूपिणीम् ॥ १५ ॥

त्रिकालसन्ध्यारूपाख्यां भजामि भक्ततारिणीम् ।

कीर्तिदां योगदां रादां सौख्यनिर्वाणदां तथा ॥ १६ ॥

मन्त्रसिद्धिप्रदामीडे सृष्टिस्थित्यन्तकारिणीम् ।

नमस्तुभ्यं जगद्धात्रि जगत्तारिणि चाम्बिके ॥ १७ ॥

सर्ववृद्धिप्रदे देवि श्रीविद्यायै नमोऽस्तु ते ।

दयारूप्यै नमस्तेऽस्तु कृपारूप्यै नमोऽस्तु ते ॥ १८ ॥

शान्तिरूप्यै नमस्तेऽस्तु धर्मरूप्यै नमो नमः ।

पूर्णब्रह्मस्वरूपिण्यै नमस्तेऽस्तु नमो नमः ॥ १९ ॥

ज्ञानार्णवायै सर्वायै नमस्तेऽस्तु नमो नमः ।

पूतात्मायै परात्मायै महात्मायै नमो नमः ॥ २० ॥

आधारकुण्डलीदेव्यै भूयो भूयो नमाम्यहम् ।

षट्चक्रभेदिनी पूर्णा षडाम्नायेश्वरी परा ॥ २१ ॥

परापरात्मिका सिद्धा श्रीबाला शरणं मम ।

इदं श्रीमकरन्दाख्यं स्तोत्रं सर्वागमोक्तकम् ॥ २२ ॥

स्तोत्रराजमिदं देवि धारय त्वं कुलेश्वरि ।

पुण्यं यशस्यमायुष्यं देवानामपि दुर्लभम् ।

पाठमात्रेण देवेशि सर्वारिष्टं विनश्यति ॥ २३ ॥

इति श्रीरुद्रयामले श्री बाला मकरन्द स्तवः ।

sri bala makaranda stava