Skip to main content
पडताळणी प्रलंबित

श्री ब्रह्म स्तवम् (पद्मपुराणे विष्णु कृतम्)

नमोऽस्त्वनन्ताय विशुद्धचेतसे

स्वरूपरूपाय सहस्रबाहवे ।

सहस्ररश्मिप्रभवाय वेधसे

विशालदेहाय विशुद्धकर्मणे ॥ १ ॥

समस्तविश्वार्तिहराय शम्भवे

समस्तसूर्यानलतिग्मतेजसे ।

नमोऽस्तु विद्यावितताय चक्रिणे

समस्तधीस्थानकृते सदा नमः ॥ २ ॥

अनादिदेवाच्युतशेखरप्रभो

भाव्युद्भवद्भूतपते महेश्वर ।

मरुत्पते सर्वपते जगत्पते

भुवस्पते भुवनपते सदा नमः ॥ ३ ॥

यज्ञेश नारायण जिष्णु शङ्कर

क्षितीश विश्वेश्वर विश्वलोचन ।

शशाङ्कसूर्याच्युत वीरविश्व-

-प्रवृत्तमूर्तेऽमृतमूर्त अव्यय ॥ ४ ॥

ज्वलद्धुताशर्चिनिरुद्धमण्डल

प्रदेशनारायण विश्वतोमुख ।

समस्तदेवार्तिहरामृताव्यय

प्रपाहि मां शरणगतं तथा विभो ॥ ५ ॥

वक्त्राण्यनेकानि विभो तवाहं

पश्यामि यज्ञस्य गतिं पुराणम् ।

ब्रह्माणमीशं जगतां प्रसूतिं

नमोऽस्तु तुभ्यं प्रपितामहाय ॥ ६ ॥

संसारचक्रक्रमणैरनेकैः

क्वचिद्भवान् देववराधिदेवः ।

तत्सर्वविज्ञानविशुद्धसत्वै-

-रुपास्यसे किं प्रणमाम्यहं त्वाम् ॥ ७ ॥

एवं भवन्तं प्रकृतेः पुरस्ता-

-द्यो वेत्त्यसौ सर्वविदांवरिष्ठः ।

गुणान्वितेषु प्रसभं विवेद्यो

विशालमूर्तिस्त्विह सूक्ष्मरूपः ॥ ८ ॥

वाक्पाणिपादैर्विगतेन्द्रियोपि

कथं भवान्वै सुगतिः सुकर्मा ।

संसारबन्धे निहितेन्द्रियोऽपि

पुनः कथं देववरोसि वेद्यः ॥ ९ ॥

मूर्तादमूर्तं न तु लभ्यते परं

परं वपुर्देवविशुद्धभावैः ।

संसारविच्छित्तिकरैर्यजद्भि-

-रतोऽवसीयेत चतुर्मुख त्वम् ॥ १० ॥

परं न जानन्ति यतो वपुस्ते

देवादयोऽप्यद्भुतरूपधारिन् ।

विभोवतारेऽग्रतरं पुराण-

-माराधयेद्यत्कमलासनस्थम् ॥ ११ ॥

न ते तत्त्वं विश्वसृजोपि योनि-

-मेकान्ततो वेत्ति विशुद्धभावः ।

परं त्वहं वेद्मि कथं पुराणं

भवन्तमाद्यं तपसा विशुद्धम् ॥ १२ ॥

पद्मासनो वै जनकः प्रसिद्ध

एवं प्रसिद्धिर्ह्यसकृत् पुराणात् ।

सञ्चिन्त्य ते नाथ विभुं भवन्तं

जानाति नैवं तपसाविहीनः ॥ १३ ॥

अस्मादृशैश्च प्रवरैर्विबोध्यं

त्वां देवमूर्खाः स्वमतिं विभज्य ।

प्रबोद्धुमिच्छन्ति न तेषु बुद्धि-

-रुदारकीर्तिष्वपि वेदहीनाः ॥ १४ ॥

जन्मान्तरैर्वेदविवेकबुद्धि-

-र्भवेद्यथा वा यदि वा प्रकाशः ।

तल्लाभलुब्धस्य न मानुषत्वं

न देवगन्धर्वपतिः शिवः स्यात् ॥ १५ ॥

न विष्णुरूपो भगवान् सुसूक्ष्मः

स्थूलोऽसि देवः कृतकृत्यतायाः ।

स्थूलोऽपि सूक्ष्मः सुलभोऽसि देव

त्वद्बाह्यकृत्या नरके पतन्ति ॥ १६ ॥

विमुच्यते वा भवति स्थितेस्मिन्

दस्रेन्दुवह्न्यर्कमरुन्महीभिः ।

तत्वैः स्वरूपैः समरूपधारिभि-

-रात्मस्वरूपे वितत स्वभावः ॥ १७ ॥

इति स्तुतिं मे भगवन् ह्यनन्त

जुषस्व भक्तस्य विशेषतश्च ।

समाधियुक्तस्य विशुद्धचेतस-

-स्त्वद्भावभावैकमनोनुगस्य ॥ १८ ॥

सदा हृदिस्थो भगवन्नमस्ते

नमामि नित्यं भगवन् पुराण ।

इति प्रकाशं तव मे तदीश

स्तवं मया सर्वगतिप्रबुद्ध ।

संसारचक्रे भ्रमणादियुक्तां

भीतिं पुनर्नः प्रतिपालयस्व ॥ ९ ॥

इति श्रीपद्ममहापुराणे सृष्टिखण्डे चतुस्त्रिंशत्तमोऽध्याये विष्णु कृत श्री ब्रह्म स्तवम् ॥

sri brahma stavam padmapurane vishnu krutam