Skip to main content
पडताळणी प्रलंबित

श्री शिव पञ्चाक्षरनक्षत्रमाला स्तोत्रम्

श्रीमदात्मने गुणैकसिन्धवे नमः शिवाय

धामलेशधूतकोकबन्धवे नमः शिवाय ।

नामशेषितानमद्भवान्धवे नमः शिवाय

पामरेतरप्रधानबन्धवे नमः शिवाय ॥ १ ॥

कालभीतविप्रबालपाल ते नमः शिवाय

शूलभिन्नदुष्टदक्षफाल ते नमः शिवाय ।

मूलकारणाय कालकाल ते नमः शिवाय

पालयाधुना दयालवाल ते नमः शिवाय ॥ २ ॥

इष्टवस्तुमुख्यदानहेतवे नमः शिवाय

दुष्टदैत्यवंशधूमकेतवे नमः शिवाय ।

सृष्टिरक्षणाय धर्मसेतवे नमः शिवाय

अष्टमूर्तये वृषेन्द्रकेतवे नमः शिवाय ॥ ३ ॥

आपदद्रिभेदटङ्कहस्त ते नमः शिवाय

पापहारिदिव्यसिन्धुमस्त ते नमः शिवाय ।

पापदारिणे लसन्नमस्त ते नमः शिवाय

शापदोषखण्डनप्रशस्त ते नमः शिवाय ॥ ४ ॥

व्योमकेश दिव्यभव्यरूप ते नमः शिवाय

हेममेदिनीधरेन्द्रचाप ते नमः शिवाय ।

नाममात्रदग्धसर्वपाप ते नमः शिवाय

कामनैकतानहृद्दुराप ते नमः शिवाय ॥ ५ ॥

ब्रह्ममस्तकावलीनिबद्ध ते नमः शिवाय

जिह्मगेन्द्रकुण्डलप्रसिद्ध ते नमः शिवाय ।

ब्रह्मणे प्रणीतवेदपद्धते नमः शिवाय

जिह्मकालदेहदत्तपद्धते नमः शिवाय ॥ ६ ॥

कामनाशनाय शुद्धकर्मणे नमः शिवाय

सामगानजायमानशर्मणे नमः शिवाय ।

हेमकान्तिचाकचक्यवर्मणे नमः शिवाय

सामजासुराङ्गलब्धचर्मणे नमः शिवाय ॥ ७ ॥

जन्ममृत्युघोरदुःखहारिणे नमः शिवाय

चिन्मयैकरूपदेहधारिणे नमः शिवाय ।

मन्मनोरथावपूर्तिकारिणे नमः शिवाय

सन्मनोगताय कामवैरिणे नमः शिवाय ॥ ८ ॥

यक्षराजबन्धवे दयालवे नमः शिवाय

दक्षपाणिशोभिकाञ्चनालवे नमः शिवाय ।

पक्षिराजवाहहृच्छयालवे नमः शिवाय

अक्षिफालवेदपूततालवे नमः शिवाय ॥ ९ ॥

दक्षहस्तनिष्ठजातवेदसे नमः शिवाय

अक्षरात्मने नमद्बिडौजसे नमः शिवाय ।

दीक्षितप्रकाशितात्मतेजसे नमः शिवाय

उक्षराजवाह ते सतां गते नमः शिवाय ॥ १० ॥

राजताचलेन्द्रसानुवासिने नमः शिवाय

राजमाननित्यमन्दहासिने नमः शिवाय ।

राजकोरकावतंसभासिने नमः शिवाय

राजराजमित्रताप्रकाशिने नमः शिवाय ॥ ११ ॥

दीनमानवालिकामधेनवे नमः शिवाय

सूनबाणदाहकृत्कृशानवे नमः शिवाय ।

स्वानुरागभक्तरत्नसानवे नमः शिवाय

दानवान्धकारचण्डभानवे नमः शिवाय ॥ १२ ॥

सर्वमङ्गलाकुचाग्रशायिने नमः शिवाय

सर्वदेवतागणातिशायिने नमः शिवाय ।

पूर्वदेवनाशसंविधायिने नमः शिवाय

सर्वमन्मनोजभङ्गदायिने नमः शिवाय ॥ १३ ॥

स्तोकभक्तितोऽपि भक्तपोषिणे नमः शिवाय

माकरन्दसारवर्षिभाषिणे नमः शिवाय ।

एकबिल्वदानतोऽपि तोषिणे नमः शिवाय

नैकजन्मपापजालशोषिणे नमः शिवाय ॥ १४ ॥

सर्वजीवरक्षणैकशीलिने नमः शिवाय

पार्वतीप्रियाय भक्तपालिने नमः शिवाय ।

दुर्विदग्धदैत्यसैन्यदारिणे नमः शिवाय

शर्वरीशधारिणे कपालिने नमः शिवाय ॥ १५ ॥

पाहि मामुमामनोज्ञ देह ते नमः शिवाय

देहि मे वरं सिताद्रिगेह ते नमः शिवाय ।

मोहितर्षिकामिनीसमूह ते नमः शिवाय

स्वेहितप्रसन्न कामदोह ते नमः शिवाय ॥ १६ ॥

मङ्गलप्रदाय गोतुरङ्ग ते नमः शिवाय

गङ्गया तरङ्गितोत्तमाङ्ग ते नमः शिवाय ।

सङ्गरप्रवृत्तवैरिभङ्ग ते नमः शिवाय

अङ्गजारये करेकुरङ्ग ते नमः शिवाय ॥ १७ ॥

ईहितक्षणप्रदानहेतवे नमः शिवाय

आहिताग्निपालकोक्षकेतवे नमः शिवाय ।

देहकान्तिधूतरौप्यधातवे नमः शिवाय

गेहदुःखपुञ्जधूमकेतवे नमः शिवाय ॥ १८ ॥

त्र्यक्ष दीनसत्कृपाकटाक्ष ते नमः शिवाय

दक्षसप्ततन्तुनाशदक्ष ते नमः शिवाय ।

ऋक्षराजभानुपावकाक्ष ते नमः शिवाय

रक्ष मां प्रपन्नमात्ररक्ष ते नमः शिवाय ॥ १९ ॥

न्यङ्कुपाणये शिवङ्कराय ते नमः शिवाय

सङ्कटाब्धितीर्णकिङ्कराय ते नमः शिवाय ।

पङ्कभीषिताभयङ्कराय ते नमः शिवाय

पङ्कजासनाय शङ्कराय ते नमः शिवाय ॥ २० ॥

कर्मपाशनाश नीलकण्ठ ते नमः शिवाय

शर्मदाय नर्यभस्मकण्ठ ते नमः शिवाय ।

निर्ममर्षिसेवितोपकण्ठ ते नमः शिवाय

कुर्महे नतीर्नमद्विकुण्ठ ते नमः शिवाय ॥ २१ ॥

विष्टपाधिपाय नम्रविष्णवे नमः शिवाय

शिष्टविप्रहृद्गुहाचरिष्णवे नमः शिवाय ।

इष्टवस्तुनित्यतुष्टजिष्णवे नमः शिवाय

कष्टनाशनाय लोकजिष्णवे नमः शिवाय ॥ २२ ॥

अप्रमेयदिव्यसुप्रभाव ते नमः शिवाय

सत्प्रपन्नरक्षणस्वभाव ते नमः शिवाय ।

स्वप्रकाश निस्तुलानुभाव ते नमः शिवाय

विप्रडिम्भदर्शितार्द्रभाव ते नमः शिवाय ॥ २३ ॥

सेवकाय मे मृड प्रसीद ते नमः शिवाय

भावलभ्यतावकप्रसाद ते नमः शिवाय ।

पावकाक्ष देवपूज्यपाद ते नमः शिवाय

तवकाङ्घ्रिभक्तदत्तमोद ते नमः शिवाय ॥ २४ ॥

भुक्तिमुक्तिदिव्यभोगदायिने नमः शिवाय

शक्तिकल्पितप्रपञ्चभागिने नमः शिवाय ।

भक्तसङ्कटापहारयोगिने नमः शिवाय

युक्तसन्मनःसरोजयोगिने नमः शिवाय ॥ २५ ॥

अन्तकान्तकाय पापहारिणे नमः शिवाय

शन्तमाय दन्तिचर्मधारिणे नमः शिवाय ।

सन्तताश्रितव्यथाविदारिणे नमः शिवाय

जन्तुजातनित्यसौख्यकारिणे नमः शिवाय ॥ २६ ॥

शूलिने नमो नमः कपालिने नमः शिवाय

पालिने विरिञ्चिमुण्डमालिने नमः शिवाय ।

लीलिने विशेषरुण्डमालिने नमः शिवाय

शीलिने नमः प्रपुण्यशालिने नमः शिवाय ॥ २७ ॥

शिवपञ्चाक्षरमुद्रां चतुष्पदोल्लासपद्यमणि घटिताम् ।

नक्षत्रमालिकामिह दधदुपकण्ठं नरो भवेत्सोमः ॥ २८ ॥

इति श्रीमच्छङ्कराचार्य कृतं श्री शिव पञ्चाक्षरनक्षत्रमाला स्तोत्रम् ॥

टिप्पणि: ऊपर दिया गया स्तोत्र इस पुस्तक में उपलब्ध है ।

( पारायण ग्रन्थम् )

shiva panchakshara nakshatramala stotram in hindi