Skip to main content
पडताळणी प्रलंबित

पञ्चस्तवि – ४

यामामनन्ति मुनयः प्रकृतिं पुराणीं

विद्येति यां श्रुतिरहस्यविदो वदन्ति ।

तामर्धपल्लवितशङ्कररूपमुद्रां

देवीमनन्यशरणः शरणं प्रपद्ये ॥ १ ॥

अम्ब स्तवेषु तव तावदकर्तृकाणि

कुण्ठीभवन्ति वचसामपि गुम्भनानि ।

डिम्भस्य मे स्तुतिरसावसमञ्जसापि

वात्सल्यनिघ्नहृदयां भवतीं धिनोतु ॥ २ ॥

व्योमेति बिन्दुरिति नाद इतीन्दुलेखा-

-रूपेति वाग्भवतनूरिति मातृकेति ।

निःस्यन्दमानसुखबोधसुधास्वरूपा

विद्योतसे मनसि भाग्यवतां जनानाम् ॥ ३ ॥

आविर्भवत्पुलकसन्ततिभिः शरीरै-

-र्निःस्यन्दमानसलिलैर्नयनैश्च नित्यम् ।

वाग्भिश्च गद्गदपदाभिरुपासते ये

पादौ तवाम्ब भुवनेषु त एव धन्याः ॥ ४ ॥

वक्त्रं यदुद्यतमभिष्टुतये भवत्या-

-स्तुभ्यं नमो यदपि देवि शिरः करोति ।

चेतश्च यत्त्वयि परायणमम्ब तानि

कस्यापि कैरपि भवन्ति तपोविशेषैः ॥ ५ ॥

मूलालवालकुहरादुदिता भवानि

निर्भिद्य षट्सरसिजानि तटिल्लतेव ।

भूयोऽपि तत्र विशसि ध्रुवमण्डलेन्दु-

-निःस्यन्दमानपरमामृततोयरूपा ॥ ६ ॥

दग्धं यदा मदनमेकमनेकधा ते

मुग्धः कटाक्षविधिरङ्कुरयाञ्चकार ।

धत्ते तदाप्रभृति देवि ललाटनेत्रं

सत्यं ह्रियैव मुकुलीकृतमिन्दुमौलेः ॥ ७ ॥

अज्ञातसम्भवमनाकलितान्ववायं

भिक्षुं कपालिनमवाससमद्वितीयम् ।

पूर्वं करग्रहणमङ्गलतो भवत्याः

शम्भुं क एव बुबुधे गिरिराजकन्ये ॥ ८ ॥

चर्माम्बरं च शवभस्मविलेपनं च

भिक्षाटनं च नटनं च परेतभूमौ ।

वेतालसंहतिपरिग्रहता च शम्भोः

शोभां बिभर्ति गिरिजे तव साहचर्यात् ॥ ९ ॥

कल्पोपसंहरणकेलिषु पण्डितानि

चण्डानि खण्डपरशोरपि ताण्डवानि ।

आलोकनेन तव कोमलितानि मात-

-र्लास्यात्मना परिणमन्ति जगद्विभूत्यै ॥ १० ॥

जन्तोरपश्चिमतनोः सति कर्मसाम्ये

निःशेषपाशपटलच्छिदुरा निमेषात् ।

कल्याणि देशिककटाक्षसमाश्रयेण

कारुण्यतो भवति शाम्भववेददीक्षा ॥ ११ ॥

मुक्ताविभूषणवती नवविद्रुमाभा

यच्चेतसि स्फुरसि तारकितेव सन्ध्या ।

एकः स एव भुवनत्रयसुन्दरीणां

कन्दर्पतां व्रजति पञ्चशरीं विनापि ॥ १२ ॥

ये भावयन्त्यमृतवाहिभिरंशुजालै-

-राप्यायमानभुवनाममृतेश्वरीं त्वाम् ।

ते लङ्घयन्ति ननु मातरलङ्घनीयां

ब्रह्मादिभिः सुरवरैरपि कालकक्षाम् ॥ १३ ॥

यः स्फाटिकाक्षगुणपुस्तककुण्डिकाढ्यां

व्याख्यासमुद्यतकरां शरदिन्दुशुभ्राम् ।

पद्मासनां च हृदये भवतीमुपास्ते

मातः स विश्वकवितार्किकचक्रवर्ती ॥ १४ ॥

बर्हावतंसयुतबर्बरकेशपाशां

गुञ्जावलीकृतघनस्तनहारशोभाम् ।

श्यामां प्रवालवदनां सुकुमारहस्तां

त्वामेव नौमि शबरीं शबरस्य जायाम् ॥ १५ ॥

अर्धेन किं नवलताललितेन मुग्धे

क्रीतं विभोः परुषमर्धमिदं त्वयेति ।

आलीजनस्य परिहासवचांसि मन्ये

मन्दस्मितेन तव देवि जडी भवन्ति ॥ १६ ॥

ब्रह्माण्ड बुद्बुदकदम्बकसङ्कुलोऽयं

मायोदधिर्विविधदुःखतरङ्गमालः ।

आश्चर्यमम्ब झटिति प्रलयं प्रयाति

त्वद्ध्यानसन्ततिमहाबडबामुखाग्नौ ॥ १७ ॥

दाक्षायणीति कुटिलेति कुहारिणीति

कात्यायनीति कमलेति कलावतीति ।

एका सती भगवती परमार्थतोऽपि

सन्दृश्यसे बहुविधा ननु नर्तकीव ॥ १८ ॥

आनन्दलक्षणमनाहतनाम्नि देशे

नादात्मना परिणतं तव रूपमीशे ।

प्रत्यङ्मुखेन मनसा परिचीयमानं

शंसन्ति नेत्रसलिलैः पुलकैश्च धन्याः ॥ १९ ॥

त्वं चन्द्रिका शशिनि तिग्मरुचौ रुचिस्त्वं

त्वं चेतनासि पुरुषे पवने बलं त्वम् ।

त्वं स्वादुतासि सलिले शिखिनि त्वमूष्मा

निःसारमेव निखिलं त्वदृते यदि स्यात् ॥ २० ॥

ज्योतींषि यद्दिवि चरन्ति यदन्तरिक्षं

सूते पयांसि यदहिर्धरणीं च धत्ते ।

यद्वाति वायुरनलो यदुदर्चिरास्ते

तत्सर्वमम्ब तव केवलमाज्ञयैव ॥ २१ ॥

सङ्कोचमिच्छसि यदा गिरिजे तदानीं

वाक्तर्कयोस्त्वमसि भूमिरनामरूपा ।

यद्वा विकासमुपयासि यदा तदानीं

त्वन्नामरूपगणनाः सुकरा भवन्ति ॥ २२ ॥

भोगाय देवि भवतीं कृतिनः प्रणम्य

भ्रूकिङ्करीकृतसरोजगृहाः सहस्रम् ।

चिन्तामणिप्रचयकल्पितकेलिशैले

कल्पद्रुमोपवन एव चिरं रमन्ते ॥ २३ ॥

हर्तुं त्वमेव भवसि त्वदधीनमीशे

संसारतापमखिलं दयया पशूनाम् ।

वैकर्तनी किरणसंहतिरेव शक्ता

धर्मं निजं शमयितुं निजयैव वृष्ट्या ॥ २४ ॥

शक्तिः शरीरमधिदैवतमन्तरात्मा

ज्ञानं क्रिया करणमासनजालमिच्छा ।

ऐश्वर्यमायतनमावरणानि च त्वं

किं तन्न यद्भवसि देवि शशाङ्कमौलेः ॥ २५ ॥

भूमौ निवृत्तिरुदिता पयसि प्रतिष्ठा

विद्याऽनले मरुति शान्तिरतीवकान्तिः ।

व्योम्नीति याः किल कलाः कलयन्ति विश्वं

तासां हि दूरतरमम्ब पदं त्वदीयम् ॥ २६ ॥

यावत्पदं पदसरोजयुगं त्वदीयं

नाङ्गीकरोति हृदयेषु जगच्छरण्ये ।

तावद्विकल्पजटिलाः कुटिलप्रकारा-

-स्तर्कग्रहाः समयिनां प्रलयं न यान्ति ॥ २७ ॥

निर्देवयानपितृयानविहारमेके

कृत्वा मनः करणमण्डलसार्वभौमम् ।

ध्याने निवेश्य तव कारणपञ्चकस्य

पर्वाणि पार्वति नयन्ति निजासनत्वम् ॥ २८ ॥

स्थूलासु मूर्तिषु महीप्रमुखासु मूर्तेः

कस्याश्चनापि तव वैभवमम्ब यस्याः ।

पत्या गिरामपि न शक्यत एव वक्तुं

सापि स्तुता किल मयेति तितिक्षितव्यम् ॥ २९ ॥

कालाग्निकोटिरुचिमम्ब षडध्वशुद्धौ

आप्लावनेषु भवतीममृतौघवृष्टिम् ।

श्यामां घनस्तनतटां शकलीकृताघां

ध्यायन्त एव जगतां गुरवो भवन्ति ॥ ३० ॥

विद्यां परां कतिचिदम्बरमम्ब केचि-

-दानन्दमेव कतिचित्कतिचिच्च मायाम् ।

त्वां विश्वमाहुरपरे वयमामनामः

साक्षादपारकरुणां गुरुमूर्तिमेव ॥ ३१ ॥

कुवलयदलनीलं बर्बरस्निग्धकेशं

पृथुतरकुचभाराक्रान्तकान्तावलग्नम् ।

किमिह बहुभिरुक्तैस्त्वत्स्वरूपं परं नः

सकलजननि मातः सन्ततं सन्निधत्ताम् ॥ ३२ ॥

इति श्रीकालिदास विरचित पञ्चस्तव्यां चतुर्थः अम्बास्तवः ।

पञ्चस्तवि ५. सकलजननीस्तवः >>

panchastavi 4 amba stava