Skip to main content
पडताळणी प्रलंबित

श्री महात्रिपुरसुन्दरी हृदयम्

वन्दे सिन्दूरवर्णाभं वामोरुन्यस्तवल्लभम् ।

इक्षुवारिधिमध्यस्थमिभराजमुखं महः ॥ १ ॥

गम्भीरलहरीजालगण्डूषितदिगन्तरः ।

अव्यान्माममृताम्भोधिरनर्घमणिसम्युतः ॥ २ ॥

मध्ये तस्य मनोहारि मधुपारवमेदुरम् ।

प्रसूनविगलन्माध्वीप्रवाहपरिपूरितम् ॥ ३ ॥

किन्नरीगानमेदस्वि क्रीडाकन्दरदन्तुरम् ।

काञ्चनद्रुमधूलीभिः कल्पितावालवद्द्रुमम् ॥ ४ ॥

मुग्धकोकिलनिक्वाणमुखरीकृतदिङ्मुखम् ।

मन्दारतरुसन्तानमञ्जरीपुञ्जपिञ्जरम् ॥ ५ ॥

नासानाडिन्धमस्मेरनमेरुसुमसौरभम् ।

आवृन्तहसिताम्भोजदीव्यद्विभ्रमदीर्घिकम् ॥ ६ ॥

मन्दरक्तशुकीदष्टमातुलुङ्गफलान्वितम् ।

सविधस्यन्दमानाभ्रसरित्कल्लोलवेल्लितम् ॥ ७ ॥

प्रसूनपांसुसौरभ्यपश्यतोहरमारुतम् ।

वकुलप्रसवाकीर्णं वन्दे नन्दनकाननम् ॥ ८ ॥

तन्मध्ये नीपकान्तारं तरणिस्तम्भकारणम् ।

मधुपालिविमर्दालिकलक्वाणकरम्बितम् ॥ ९ ॥

कोमलश्वशनाधूतकोरकोद्गतधूलिभिः ।

सिन्दूरितनभोमार्गं चिन्तितं सिद्धवन्दिभिः ॥ १० ॥

मध्ये तस्य मरुन्मार्गलम्बिमाणिक्यतोरणम् ।

शाणोल्लिखितवैदूर्यक्लुप्तसालसमाकुलम् ॥ ११ ॥

माणिक्यस्तम्भपटलीमयूखव्याप्तदिक्तटम् ।

पञ्चविंशतिसालाढ्यां नमामि नगरोत्तमम् ॥ १२ ॥

तत्र चिन्तामणिगृहं तडित्कोटिसमुज्ज्वलम् ।

नीलोत्पलसमाकीर्णनिर्यूहशतसङ्कुलम् ॥ १३ ॥

सोमकान्तमणिक्लुप्तसोपानोद्भासिवेदिकम् ।

चन्द्रशालाचरत्केतुसमालीढनभोन्तरम् ॥ १४ ॥

गारुत्मतमणीक्लुप्तमण्डपव्यूहमण्डितम् ।

नित्यसेवापरामर्त्यनिबिडद्वारशोभितम् ॥ १५ ॥

अधिष्ठितं द्वारपालैरसितोमरपाणिभिः ।

नमामि नाकनारीणां सान्द्रसङ्गीतमेदुरम् ॥ १६ ॥

तन्मध्ये तरुणार्काभं तप्तकाञ्चननिर्मितम् ।

शक्रादिमद्द्वारपालैः सन्ततं परिवेष्टितम् ॥ १७ ॥

चतुष्षष्टिमहाविद्याकलाभिरभिसंवृतम् ।

रक्षितं योगिनीबृन्दै रत्नसिंहासनं भजे ॥ १८ ॥

मध्ये तस्य मरुत्सेव्यं चतुर्द्वारसमुज्ज्वलम् ।

चतुरस्रत्रिरेखाढ्यां चारुत्रिवलयान्वितम् ॥ १९ ॥

कलादलसमायुक्तं कनदष्टदलान्वितम् ।

चतुर्दशारसहितं दशारद्वितयान्वितम् ॥ २० ॥

अष्टकोणयुतं दिव्यमग्निकोणविराजितम् ।

योगिभिः पूजितं योगियोगिनीगणसेवितम् ॥ २१ ॥

सर्वदुःखप्रशमनं सर्वव्याधिविनाशनम् ।

विषज्वरहरं पुण्यं विविधापद्विदारणम् ॥ २२ ॥

सर्वदारिद्र्यशमनं सर्वभूपालमोहनम् ।

आशाभिपूरकं दिव्यमर्चकानामहर्निशम् ॥ २३ ॥

अष्टादशसुमर्माढ्यं चतुर्विंशतिसन्धिनम् ।

श्रीमद्बिन्दुगृहोपेतं श्रीचक्रं प्रणमाम्यहम् ॥ २४ ॥

तत्रैव बैन्दवस्थाने तरुणादित्यसन्निभम् ।

पाशाङ्कुशधनुर्बाणपरिष्कृतकराम्बुजम् ॥ २५ ॥

पूर्णेन्दुबिम्बवदनं फुल्लपङ्कजलोचनम् ।

कुसुमायुधशृङ्गारकोदण्डकुटिलभ्रुवम् ॥ २६ ॥

चारुचन्द्रकलोपेतं चन्दनागुरुरूषितम् ।

मन्दस्मितमधूकालिकिञ्जल्कितमुखाम्बुजम् ॥ २७ ॥

पाटीरतिलकोद्भासिफालस्थलमनोहरम् ।

अनेककोटिकन्दर्पलावण्यमरुणाधरम् ॥ २८ ॥

तपनीयांशुकधरं तारुण्यश्रीनिषेवितम् ।

कामेश्वरमहं वन्दे कामितार्थप्रदं नृणाम् ॥ २९ ॥

तस्याङ्कमध्यमासीनां तप्तहाटकसन्निभाम् ।

माणिक्यमुकुटच्छायामण्डलारुणदिङ्मुखाम् ॥ ३० ॥

कलवेणीकनत्फुल्लकह्लारकुसुमोज्ज्वलाम् ।

उडुराजकृतोत्तंसामुत्पलश्यामलालकाम् ॥ ३१ ॥

चतुर्थीचन्द्रसच्छात्रफालरेखापरिष्कृताम् ।

कस्तूरीतिलकारूढकमनीयललन्तिकाम् ॥ ३२ ॥

भ्रूलताश्रीपराभूतपुष्पायुधशरासनाम् ।

नालीकदलदायादनयनत्रयशोभिताम् ॥ ३३ ॥

करुणारससम्पूर्णकटाक्षहसितोज्ज्वलाम् ।

भव्यमुक्तामणिचारुनासामौक्तिकवेष्टिताम् ॥ ३४ ॥

कपोलयुगलीनृत्यकर्णताटङ्कशोभिताम् ।

माणिक्यवालीयुगलीमयूखारुणदिङ्मुखाम् ॥ ३५ ॥

परिपक्वसुबिम्बाभापाटलाधरपल्लवाम् ।

मञ्जुलाधरपर्वस्थमन्दस्मितमनोहराम् ॥ ३६ ॥

द्विखण्डद्विजराजाभगण्डद्वितयमण्डिताम् ।

दरफुल्ललसद्गण्डधवलापूरिताननाम् ॥ ३७ ॥

पचेलिमेन्दुसुषमापाटच्चरमुखप्रभाम् ।

कन्धराकान्तिहसितकम्बुबिम्बोकडम्बराम् ॥ ३८ ॥

कस्तूरीकर्दमाश्यामकन्धरामूलकन्दराम् ।

वामांसशिखरोपान्तव्यालम्बिघनवेणिकाम् ॥ ३९ ॥

मृणालकाण्डदायादमृदुबाहुचतुष्टयाम् ।

मणिकेयूरयुगलीमयूखारुणविग्रहाम् ॥ ४० ॥

करमूललसद्रत्नकङ्कणक्वाणपेशलाम् ।

करकान्तिसमाधूतकल्पानोकहपल्लवाम् ॥ ४१ ॥

पद्मरागोर्मिकाश्रेणिभासुराङ्गुलिपालिकाम् ।

पुण्ड्रकोदण्डपुष्पास्त्रपाशाङ्कुशलसत्कराम् ॥ ४२ ॥

तप्तकाञ्चनकुम्भाभस्तनमण्डलमण्डिताम् ।

घनस्तनतटीक्लुप्तकाश्मीरक्षोदपाटलाम् ॥ ४३ ॥

कूलङ्कषकुचस्फारतारहारविराजिताम् ।

चारुकौसुम्भकूर्पासच्छन्नवक्षोजमण्डलाम् ॥ ४४ ॥

नवनीलघनश्यामरोमराजिविराजिताम् ।

लावण्यसागरावर्तनिभनाभिविभूषिताम् ॥ ४५ ॥

डिम्भमुष्टितलग्राह्यमध्ययष्टिमनोहराम् ।

नितम्बमण्डलाभोगनिक्वणन्मणिमेखलाम् ॥ ४६ ॥

सन्ध्यारुणक्षौमपटीसञ्छन्नजघनस्थलाम् ।

घनोरुकान्तिहसितकदलीकाण्डविभ्रमाम् ॥ ४७ ॥

जानुसम्पुटकद्वन्द्वजितमाणिक्यदर्पणाम् ।

जङ्घायुगलसौन्दर्यविजितानङ्गकाहलाम् ॥ ४८ ॥

प्रपदच्छायसन्तानजितप्राचीनकच्छपाम् ।

नीरजासनकोटीरनिघृष्टचरणाम्बुजाम् ॥ ४९ ॥

पादशोभापराभूतपाकारितरुपल्लवाम् ।

चरणाम्भोजशिञ्जानमणिमञ्जीरमञ्जुलाम् ॥ ५० ॥

विबुधेन्द्रवधूत्सङ्गविन्यस्तपदपल्लवाम् ।

पार्श्वस्थभारतीलक्ष्मीपाणिचामरवीजिताम् ॥ ५१ ॥

पुरतो नाकनारीणां पश्यन्तीं नृत्तमद्भुतम् ।

भ्रूलताञ्चलसम्भूतपुष्पायुधपरम्पराम् ॥ ५२ ॥

प्रत्यग्रयौवनोन्मत्तपरिफुल्लविलोचनाम् ।

ताम्रोष्ठीं तरलापाङ्गीं सुनासां सुन्दरस्मिताम् ॥ ५३ ॥

चतुरर्थध्रुवोदारां चाम्पेयोद्गन्धिकुन्तलाम् ।

मधुस्नपितमृद्वीकमधुरालापपेशलाम् ॥ ५४ ॥

शिवां षोडशवार्षीकां शिवाङ्कतलवासिनीम् ।

चिन्मयीं हृदयाम्भोजे चिन्तयेज्जापकोत्तमः ॥ ५५ ॥

इति त्रिपुरसुन्दर्या हृदयं सर्वकामदम् ।

सर्वदारिद्र्यशमनं सर्वसम्पत्प्रदं नृणाम् ॥ ५६ ॥

तापज्वरार्तिशमनं तरुणीजनमोहनम् ।

महाविषहरं पुण्यं माङ्गल्यकरमद्भुतम् ॥ ५७ ॥

अपमृत्युहरं दिव्यमायुष्यश्रीकरं परम् ।

अपवर्गैकनिलयमवनीपालवश्यदम् ॥ ५८ ॥

पठति ध्यानरत्नं यः प्रातः सायमतन्द्रितः ।

न विषादैः स च पुमान् प्राप्नोति भुवनत्रयम् ॥ ५९ ॥

इति श्रीमहात्रिपुरसुन्दरीहृदयं सम्पूर्णम् ।

maha tripura sundari hrudayam